मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते । आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सह॑: ॥
mandantu tvā maghavann indrendavo rādhodeyāya sunvate | āmuṣyā somam apibaś camū sutaṁ jyeṣṭhaṁ tad dadhiṣe sahaḥ ||
मन्द॑न्तु । त्वा॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । इन्द॑वः । रा॒धः॒ऽदया॑य । सु॒न्व॒ते । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒बः॒ । च॒मू इति॑ । सु॒तम् । ज्येष्ठ॑म् । तत् । द॒धि॒षे॒ । सहः॑ ॥ ८.४.४
शिव शंकर शर्मा
अपने कर्म से ईश्वर को प्रसन्न करो, यह दिखलाते हैं।
आर्यमुनि
अब सत्कारानन्तर कर्मयोगी की स्तुति करना कथन करते हैं।
शिव शंकर शर्मा
स्वकर्मणेशं प्रसादयेति दर्शयति।
आर्यमुनि
अथ सत्कारानन्तरं तं स्तौति।